शनिवार, 1 मई 2010

द्वादशः शैक्स्पिरीयः सोनेतः

अनुवाद एव मुद्रा--

वेलावदतीं घटीम्गणयन्, पश्यन्: स्वहं दुर्निशा भवते,

वसन्तान्ते नीलोत्पलं क्षीणम्, नीलालका रौप्याः श्वेतायन्ते,

वृक्षा बृहन्तः विना पर्णानि यूथानां छायादवितानकाः,

ग्रीष्मतृणानि स्तम्बबद्धानि शूकश्मश्रूणि निहित्वा खाटान्।

तव सौन्दर्यस्य भाग्यमीक्षे: जीर्णकाले त्वया त्यजनीयं।

स्वादुता हि, रूपं च जहते मृयते च यथान्यत्प्ररूढम्।

पुत्रकेणैव रक्ष्यसे कालात्-युध्यासे हरतीतो यदा त्वाम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें